||Sundarakanda ||

|| Sarga 28||( Only Slokas in Devanagari) )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ अष्टाविंशस्सर्गः

सा राक्षसेंद्रस्य वचो निशम्य
तद्रावण स्या प्रिय मप्रियार्ता।
सीता वितत्रास यथा वनांते
सिंहाभिपन्ना गजराजकन्या॥1||

सा राक्षसी मध्यगताच भीरु
र्वाग्भिर्भृशं रावण तर्जिता च।
कांतारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता॥2||

सत्यं बतेदं प्रवदंति लोके
नाकालमृत्युर्बवतीतिसंतः।
यत्राहमेवं परिभर्त्स्य माना
जीवामि किंचित् क्षणमप्यपुण्या॥ 3||

सुखाद्विहीनं बहुदुःखपूर्णं
इदं तु नूनं हृदयंस्थिरं मे।
विशीर्यते यन्न सहस्रधाsद्य
वज्राहतं शृंग मिवाऽचलस्य॥4||

नैवास्ति दोषं ममनून मत्र
वध्याह मस्याऽप्रियदर्शनस्य।
भावं न चास्याह मनु प्रदातु
मलं द्विजो मंत्रमिवाsद्विजाय॥5||

नूनं ममांगा न्यचिरा दनार्य
श्शस्त्रै श्शितै श्चेत्स्यति राक्षसेंद्रः।
तस्मिन्नागच्छति लोकनाथे
गर्भस्थजंतोरिव शल्य कृन्तः॥6||

दुःखं बतेदं ममदुःखिताया
मासौ चिरायाधिगमिष्यतौ द्वौ।
बद्दस्य वध्यस्य तथा निशांते
राजापराधादिव तस्करस्य॥7||

हा राम हा लक्ष्मण हा सुमित्रे
हा राममाताः सह मे जनन्या।
एषा विपद्या म्यह मल्पभाग्या
महार्णवे नौरिव मूढवाता॥8||

तरस्विनौ धारयता मृगस्य
सत्वेन रूपं मनुजेंद्र पुत्रौ।
नूनं विशस्तौ मम कारणात्तौ
सिंहर्षभौ द्वाविव वैद्युतेन॥9||

नूनं स कालो मृगरूपधारी
मा मल्पभाग्यां लुलुभे तदानीम्।
यत्रार्यपुत्रं विससर्ज मूढा
रामानुजं लक्ष्मणपूर्वजं च॥10||

हाराम सत्यव्रत दीर्घबाहो
हा पूर्ण चंद्र प्रतिमानवक्त्र।
हा जीवलोकश्च हितः प्रियश्च
वध्यां न मां वेत्सि हि राक्षसानाम्॥11||

अनन्य दैवत्व मियं क्षमा च
भूमौ च शय्या नियमश्च धर्मे।
पतिव्रता त्वं विफलं ममेदं
कृतं कृतघ्नेष्विव मानुषाणाम्॥12||

मोघो हि धर्मश्चरितो मयाsयम्
तथैकपत्नीत्व मिदं निरर्थम्।
या त्वां न पश्यामि कृशा विवर्णा
हीना त्वया संगमने निराशा॥13||

पितुर्निदेशम् नियमेन कृत्वा
वनान् निवृत्तश्चरितव्रतश्च।
स्त्रीभिस्तु मन्ये विपिलेक्षणाभि
स्त्वं रंस्यसे वीतभयः कृतार्थः॥14||

अहं तु रामा त्वयि जात कामा
चिरं विनाशाय निबद्धभावा।
मोघं चरित्वाऽथ तपोव्रतं च
त्यक्ष्यामि धिक् जीवित मल्पभाग्या॥15||

सा जीवितं क्षिप्र महं त्यजेयं
विषेण शस्त्रेण शितेन वापि।
विषस्य दाता न हि मेऽस्ति कश्चित्
शस्त्रस्य वा वेश्मनि राक्षसस्य॥16||

इतीव देवी बहुधा विलप्य
सर्वात्मना राम मनुस्मरंती।
प्रवेपमाना परिशुष्कवक्त्रा
नगोत्तमं पुष्पित मास साद॥17||

शोकाभितप्ता बहुधा विचिंत्या
सीताsथ वेण्युद्ग्रथनं गृहीत्वा।
उद्बध्य वेण्युद्ग्रथनेन शीघ्रं
अहं गमिष्यामि यमस्य मूलम्॥18||

उपस्थिता सा मृदुसर्वगात्री
शाखांगृहीत्वाऽथ नगस्य तस्य ।
तस्यास्तु रामं प्रविचिंतयंत्या
रामानुजं स्वं च कुलं शुभांग्याः॥19||

शोकानिमित्तानि तथा बहूनि
धैर्यार्जितानि प्रवराणि लोके।
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धा न्युपलक्षितानि॥20||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे अष्टाविंशस्सर्गः॥